ऋषिः - बरुः सर्वहरिर्वा
देवता - हरिः
छन्दः - जगती
स्वरः - सूक्त-३०
त्वम्ऽत्व॑म् । अ॒ह॒र्य॒था॒ः । उप॑ऽस्तुतः । पूर्वे॑भिः । इ॒न्द्र॒ । ह॒रि॒के॒श॒ । यज्व॑ऽभिः ॥ त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राध॑ः । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥३०.५॥
त्वम्ऽत्वम् । अहर्यथाः । उपऽस्तुतः । पूर्वेभिः । इन्द्र । हरिकेश । यज्वऽभिः ॥ त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राधः । हरिऽजात । हर्यतम् ॥३०.५॥