ऋषिः - गोतमः

देवता - इन्द्रः

छन्दः - जगती

स्वरः - सूक्त-२५

PreviousNext
स्वर सहित मन्त्र

आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒व प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑। प्रा॒चैर्दे॒वासः॒ प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व ॥

स्वर सहित पद पाठ

आप॑ः । न । दे॒वीः । उप॑ । य॒न्ति॒ । हो॒त्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ । विऽत॑तम् । यथा॑ । रज॑ः ॥ प्रा॒चैः । दे॒वास॑ः । प्र । न॒य॒न्ति॒ । दे॒व॒ऽयुम् । ब्र॒ह्म॒ऽप्रिय॑म् । जो॒ष॒य॒न्ते॒ । व॒राःऽइ॑व ॥२५.२॥


स्वर रहित मन्त्र

आपो न देवीरुप यन्ति होत्रियमव पश्यन्ति विततं यथा रजः। प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥


स्वर रहित पद पाठ

आपः । न । देवीः । उप । यन्ति । होत्रियम् । अवः । पश्यन्ति । विऽततम् । यथा । रजः ॥ प्राचैः । देवासः । प्र । नयन्ति । देवऽयुम् । ब्रह्मऽप्रियम् । जोषयन्ते । वराःऽइव ॥२५.२॥