ऋषिः - गोतमः

देवता - इन्द्रः

छन्दः - जगती

स्वरः - सूक्त-२५

PreviousNext
स्वर सहित मन्त्र

अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभिः॑। तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥

स्वर सहित पद पाठ

अश्व॑ऽवति । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ । सु॒प्र॒ऽअ॒वीः । इ॒न्द्र॒ । मर्त्य॑ः । तव॑ । ऊ॒तिऽभि॑ः ॥ तम् । इत् । पृ॒ण॒क्षि॒ । वसु॑ना । भवी॑यसा । सिन्धु॑म् । आप॑ः । यथा॑ । अ॒भित॑ः । विऽचे॑तसः ॥२५.१॥


स्वर रहित मन्त्र

अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः। तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥


स्वर रहित पद पाठ

अश्वऽवति । प्रथमः । गोषु । गच्छति । सुप्रऽअवीः । इन्द्र । मर्त्यः । तव । ऊतिऽभिः ॥ तम् । इत् । पृणक्षि । वसुना । भवीयसा । सिन्धुम् । आपः । यथा । अभितः । विऽचेतसः ॥२५.१॥