ऋषिः - सव्यः

देवता - इन्द्रः

छन्दः - जगती

स्वरः - सूक्त-२१

PreviousNext
स्वर सहित मन्त्र

ए॒भिर्द्युभि॑र्सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑। इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः समि॒षा र॑भेमहि ॥

स्वर सहित पद पाठ

ए॒भिः । द्युऽभि॑ः । सु॒ऽमना॑ । ए॒भिः । इन्दु॑ऽभिः । नि॒ऽरु॒न्धा॒नः । अम॑तिम् । गोभि॑ः । अ॒श्विना॑ ॥ इन्द्रे॑ण । दस्यु॑म् । दु॒रय॑न्तः । इन्दु॑ऽभिः । यु॒तऽद्वे॑षसः । सम् । इ॒षा । र॒भे॒म॒हि॒ ॥२१.४॥


स्वर रहित मन्त्र

एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना। इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥


स्वर रहित पद पाठ

एभिः । द्युऽभिः । सुऽमना । एभिः । इन्दुऽभिः । निऽरुन्धानः । अमतिम् । गोभिः । अश्विना ॥ इन्द्रेण । दस्युम् । दुरयन्तः । इन्दुऽभिः । युतऽद्वेषसः । सम् । इषा । रभेमहि ॥२१.४॥