ऋषिः - सव्यः

देवता - इन्द्रः

छन्दः - जगती

स्वरः - सूक्त-२१

PreviousNext
स्वर सहित मन्त्र

न्यू॒षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः। नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥

स्वर सहित पद पाठ

नि । ऊं॒ इति॑ । सु । वाच॑म् । प्र । म॒हे । भ॒रा॒म॒हे॒ । गिर॑ः । इन्द्रा॑य । सद॑ने । वि॒वस्व॑तः ॥ नु । चि॒त् । हि । रत्न॑म् । स॒स॒ताम्ऽइ॑व । अवि॑दत् । न । दु॒ःऽस्तु॒तिः । द्र॒वि॒ण॒ःऽदेषु॑ । श॒स्य॒ते॒ ॥२१.१॥


स्वर रहित मन्त्र

न्यूषु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः। नू चिद्धि रत्नं ससतामिवाविदन्न दुष्टुतिर्द्रविणोदेषु शस्यते ॥


स्वर रहित पद पाठ

नि । ऊं इति । सु । वाचम् । प्र । महे । भरामहे । गिरः । इन्द्राय । सदने । विवस्वतः ॥ नु । चित् । हि । रत्नम् । ससताम्ऽइव । अविदत् । न । दुःऽस्तुतिः । द्रविणःऽदेषु । शस्यते ॥२१.१॥