ऋषिः - कृष्णः

देवता - इन्द्रः

छन्दः - जगती

स्वरः - सूक्त-१७

PreviousNext
स्वर सहित मन्त्र

वि॑षू॒वृदिन्द्रो॒ अमु॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते। तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥

स्वर सहित पद पाठ

वि॒षु॒ऽवृत् । इन्द्र॑ः । अम॑तेः । उ॒त । क्षु॒धः । सः । इत् । रा॒यः । म॒घऽवा॑ । वस्व॑ः । ई॒श॒ते॒ ॥ तस्य॑ । इत् । इ॒मे। प्र॒व॒णे । स॒प्त । सिन्ध॑वः । वय॑ः । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य॑ । शु॒ष्मिण॑ः ॥१७.३॥


स्वर रहित मन्त्र

विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते। तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥


स्वर रहित पद पाठ

विषुऽवृत् । इन्द्रः । अमतेः । उत । क्षुधः । सः । इत् । रायः । मघऽवा । वस्वः । ईशते ॥ तस्य । इत् । इमे। प्रवणे । सप्त । सिन्धवः । वयः । वर्धन्ति । वृषभस्य । शुष्मिणः ॥१७.३॥