ऋषिः - कृष्णः
देवता - इन्द्रः
छन्दः - जगती
स्वरः - सूक्त-१७
अच्छ॑ । मे॒ । इन्द्र॑म् । म॒तय॑ः । स्व॒ःऽविद॑ः । स॒ध्रीची॑ः । विश्वा॑ः । उ॒श॒तीः । अ॒नू॒ष॒त॒ ॥ परि॑ । स्व॒ज॒न्ते॒ । जन॑यः । यथा॑ । पति॑म् । मर्य॑म् । न । शु॒न्ध्युम् । म॒घऽवा॑नम् । ऊ॒तये॑ ॥१७.१॥
अच्छ । मे । इन्द्रम् । मतयः । स्वःऽविदः । सध्रीचीः । विश्वाः । उशतीः । अनूषत ॥ परि । स्वजन्ते । जनयः । यथा । पतिम् । मर्यम् । न । शुन्ध्युम् । मघऽवानम् । ऊतये ॥१७.१॥