ऋषिः - अयास्यः

देवता - बृहस्पतिः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-१६

PreviousNext
स्वर सहित मन्त्र

अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत्। बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥

स्वर सहित पद पाठ

अप॑ । ज्योति॑षा । तम॑ः । अ॒न्तरि॑क्षात् । उ॒द्नः । शीपा॑लम्ऽइव । वात॑ः। आ॒ज॒त् ॥ बृह॒स्पति॑ः । अ॒नु॒ऽमृ‌श्य॑ । व॒लस्य॑ । अ॒भ्रम्ऽइ॑व । वात॑ः । आ । च॒क्रे॒ । आ । गाः ॥१६.५॥


स्वर रहित मन्त्र

अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत्। बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥


स्वर रहित पद पाठ

अप । ज्योतिषा । तमः । अन्तरिक्षात् । उद्नः । शीपालम्ऽइव । वातः। आजत् ॥ बृहस्पतिः । अनुऽमृ‌श्य । वलस्य । अभ्रम्ऽइव । वातः । आ । चक्रे । आ । गाः ॥१६.५॥