ऋषिः - अयास्यः
देवता - बृहस्पतिः
छन्दः - त्रिष्टुप्
स्वरः - सूक्त-१६
अ॒भि । श्या॒वम् । न । कृश॑नेभि ः । अश्व॑म् । नक्ष॑त्रेभिः । पि॒तर॑ः । द्याम् । अ॒पिं॒श॒न् ॥ रात्र्या॑म् । तम॑ः । अद॑धुः । ज्योति॑ः । अह॑न् । बृह॒स्पति॑ः । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः॥१६.११॥
अभि । श्यावम् । न । कृशनेभि ः । अश्वम् । नक्षत्रेभिः । पितरः । द्याम् । अपिंशन् ॥ रात्र्याम् । तमः । अदधुः । ज्योतिः । अहन् । बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः॥१६.११॥