ऋषिः - अयास्यः

देवता - बृहस्पतिः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-१६

PreviousNext
स्वर सहित मन्त्र

उ॑द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑। गि॑रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॒र्का अ॑नावन् ॥

स्वर सहित पद पाठ

उ॒द॒ऽप्रुत॑ः । न । वय॑ः । रक्ष॑माणाः । वाव॑दतः । अ॒भ्र‍िय॑स्यऽइव । घोषा॑ः ॥ गि॒रि॒ऽभ्रज॑ः । न । ऊ॒र्मय॑ः । मद॑न्तः । बृह॒स्पति॑म्। अ॒भि । अ॒र्काः । अ॒ना॒व॒न् ॥१६.१॥


स्वर रहित मन्त्र

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः। गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥


स्वर रहित पद पाठ

उदऽप्रुतः । न । वयः । रक्षमाणाः । वावदतः । अभ्र‍ियस्यऽइव । घोषाः ॥ गिरिऽभ्रजः । न । ऊर्मयः । मदन्तः । बृहस्पतिम्। अभि । अर्काः । अनावन् ॥१६.१॥