atharvaveda/20/15/3
ऋषिः - गोतमः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - सूक्त-१५
अ॒स्मै । भी॒माय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उष॑: । न । शु॒भ्रे॒ । आ । भ॒र॒ । पनी॑यसे ॥ यस्य॑ । धाम॑ । अव॑से । नाम॑ । इ॒न्द्रि॒यम् । ज्योति॑: । अका॑रि । ह॒रित॑: । न । अय॑से ॥१५.३॥
अस्मै । भीमाय । नमसा । सम् । अध्वरे । उष: । न । शुभ्रे । आ । भर । पनीयसे ॥ यस्य । धाम । अवसे । नाम । इन्द्रियम् । ज्योति: । अकारि । हरित: । न । अयसे ॥१५.३॥