ऋषिः - गोतमः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - सूक्त-१५
अध॑ । ते॒ । विश्व॑म् । अनु॑ । ह॒ । अ॒स॒त् । इ॒ष्टये॑ । आप॑ः । नि॒म्नाऽइ॑व । सव॑ना । ह॒विष्म॑तः ॥ यत् । पर्व॑ते । न । स॒म्ऽअशी॑त । ह॒र्य॒तः । इन्द्र॑स्य । वज्र॑ः । श्नथि॑ता । हि॒र॒ण्यय॑ः ॥१५.२॥
अध । ते । विश्वम् । अनु । ह । असत् । इष्टये । आपः । निम्नाऽइव । सवना । हविष्मतः ॥ यत् । पर्वते । न । सम्ऽअशीत । हर्यतः । इन्द्रस्य । वज्रः । श्नथिता । हिरण्ययः ॥१५.२॥