ऋषिः - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - सूक्त १४३
आ । न॒ः । या॒त॒म् । दि॒वः । अच्छ॑ । पृ॒थि॒व्याः । हि॒र॒ण्यये॑न । सु॒ऽवृता॑ । रथे॑न ॥ मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒यन्त॑ः । सम् । यत् । द॒दे । नाभि॑ः । पू॒र्व्या । वा॒म् ॥१४३.५॥
आ । नः । यातम् । दिवः । अच्छ । पृथिव्याः । हिरण्ययेन । सुऽवृता । रथेन ॥ मा । वाम् । अन्ये । नि । यमन् । देवयन्तः । सम् । यत् । ददे । नाभिः । पूर्व्या । वाम् ॥१४३.५॥