ऋषिः - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - सूक्त १४३
यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । ताम् । दिव॑ः। न॒पा॒ता॒ । व॒न॒थ॒ः । शची॑भिः ॥ यु॒वोः । वपु॑ः । अ॒भि । पृक्ष॑ः । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हास॑ः । रथे॑ । वा॒म् ॥१४३.२॥
युवम् । श्रियम् । अश्विना । देवता । ताम् । दिवः। नपाता । वनथः । शचीभिः ॥ युवोः । वपुः । अभि । पृक्षः । सचन्ते । वहन्ति । यत् । ककुहासः । रथे । वाम् ॥१४३.२॥