ऋषिः - शशकर्णः
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - सूक्त १४२
अभु॑त्सि । ऊं॒ इति॑ । प्र । दे॒व्या । सा॒कम् । वा॒चा । अ॒हम् । अ॒श्विनो॑ः ॥ वि । आ॒व॒ः । दे॒वि॒ । आ । मतिम् । वि । रा॒तिम् ।मर्त्ये॑भ्यः ॥१४२.१॥
अभुत्सि । ऊं इति । प्र । देव्या । साकम् । वाचा । अहम् । अश्विनोः ॥ वि । आवः । देवि । आ । मतिम् । वि । रातिम् ।मर्त्येभ्यः ॥१४२.१॥