ऋषिः - शशकर्णः

देवता - अश्विनौ

छन्दः - त्रिष्टुप्

स्वरः - सूक्त १४०

PreviousNext
स्वर सहित मन्त्र

यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑। पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥

स्वर सहित पद पाठ

यत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । वि॒ऽअ॑श्वः । ऋषि॑ः । यत् । वा॒म् । दी॒र्घऽत॑माः। जु॒हाव॑ ॥ पृथी॑ । यत् । वा॒म् । वै॒न्यः । सद॑नेषु । ए॒व । इत् । अत॑ः । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥१४०.५॥


स्वर रहित मन्त्र

यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव। पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥


स्वर रहित पद पाठ

यत् । वाम् । कक्षीवान् । उत । यत् । विऽअश्वः । ऋषिः । यत् । वाम् । दीर्घऽतमाः। जुहाव ॥ पृथी । यत् । वाम् । वैन्यः । सदनेषु । एव । इत् । अतः । अश्विना । चेतयेथाम् ॥१४०.५॥