ऋषिः - शशकर्णः

देवता - अश्विनौ

छन्दः - अनुष्टुप्

स्वरः - सूक्त १४०

PreviousNext
स्वर सहित मन्त्र

यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑। यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥

स्वर सहित पद पाठ

यत् । अ॒द्य । वा॒म् । ना॒स॒त्या॒ । उ॒क्थैः । आ॒ऽचु॒च्यु॒वी॒महि॑ ॥ यत् । वा॒ । वाणी॑भिः । अ॒श्वि॒ना॒ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥१४०.४॥


स्वर रहित मन्त्र

यदद्य वां नासत्योक्थैराचुच्युवीमहि। यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥


स्वर रहित पद पाठ

यत् । अद्य । वाम् । नासत्या । उक्थैः । आऽचुच्युवीमहि ॥ यत् । वा । वाणीभिः । अश्विना । एव । इत् । काण्वस्य । बोधतम् ॥१४०.४॥