ऋषिः - गोतमः

देवता - मरुद्गणः

छन्दः - जगती

स्वरः - सूक्त-१३

PreviousNext
स्वर सहित मन्त्र

आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑नः॒ प्र जि॑गात बा॒हुभिः॑। सी॑दता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥

स्वर सहित पद पाठ

आ । व॒ः । व॒ह॒न्तु॒ । सप्त॒यः । र॒घु॒ऽस्यद॑ः । र॒घु॒ऽपत्वा॑नः । प्र । जि॒गा॒त॒ । बा॒हुऽभि॑ः ॥ सीद॑त । आ । ब॒हि॑ः । उ॒रु । व॒ः । सद॑ः ।कृ॒तम् । मा॒दय॑ध्वम् । म॒रु॒त॒ः । मध्व॑ः । अन्ध॑सः ॥१३.२॥


स्वर रहित मन्त्र

आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः। सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥


स्वर रहित पद पाठ

आ । वः । वहन्तु । सप्तयः । रघुऽस्यदः । रघुऽपत्वानः । प्र । जिगात । बाहुऽभिः ॥ सीदत । आ । बहिः । उरु । वः । सदः ।कृतम् । मादयध्वम् । मरुतः । मध्वः । अन्धसः ॥१३.२॥