ऋषिः -

देवता - प्रजापतिरिन्द्रो वा

छन्दः - विराडनुष्टुप्

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

पृ॒ष्ठं धाव॑न्तं ह॒र्योरौच्चैः॑ श्रव॒सम॑ब्रुवन्। स्व॒स्त्यश्व॒ जैत्रा॒येन्द्र॒मा व॑ह सु॒स्रज॑म् ॥

स्वर सहित पद पाठ

पृ॒ष्ठम् । धाव॑न्तम् । ह॒र्यो: । औच्चै॑:ऽश्रव॒सम् । अ॑ब्रुवन् ॥ स्व॒स्ति । अश्व॒ । जैत्रा॒य । इन्द्र॒म् । आ । व॑ह । सु॒स्रज॑म् ॥१२८.१५॥


स्वर रहित मन्त्र

पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन्। स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥


स्वर रहित पद पाठ

पृष्ठम् । धावन्तम् । हर्यो: । औच्चै:ऽश्रवसम् । अब्रुवन् ॥ स्वस्ति । अश्व । जैत्राय । इन्द्रम् । आ । वह । सुस्रजम् ॥१२८.१५॥