ऋषिः - वृषाकपिरिन्द्राणी च

देवता - इन्द्रः

छन्दः - पङ्क्तिः

स्वरः - सूक्त-१२६

PreviousNext
स्वर सहित मन्त्र

यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन। क्व स्य पु॑ल्व॒घो मृ॒गः कम॑गं जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

स्वर सहित पद पाठ

यत् । उद॑ञ्चः । वृ॒षा॒क॒पे॒ । गृ॒हम् । इ॒न्द्र॒ । अज॑गन्तन ॥ क्व । स्यः । पु॒ल्व॒घः । मृ॒गः । कम् । अ॒ग॒न् । ऊ॒न॒ऽयोप॑नः । विश्व॑स्मात् । इन्द्र॑ः । उत्ऽत॑र ॥१२६.२२॥


स्वर रहित मन्त्र

यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन। क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥


स्वर रहित पद पाठ

यत् । उदञ्चः । वृषाकपे । गृहम् । इन्द्र । अजगन्तन ॥ क्व । स्यः । पुल्वघः । मृगः । कम् । अगन् । ऊनऽयोपनः । विश्वस्मात् । इन्द्रः । उत्ऽतर ॥१२६.२२॥