ऋषिः - वृषाकपिरिन्द्राणी च

देवता - इन्द्रः

छन्दः - पङ्क्तिः

स्वरः - सूक्त-१२६

PreviousNext
स्वर सहित मन्त्र

परा॒ हीन्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑। नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

स्वर सहित पद पाठ

परा॑ । हि। इ॒न्द्र॒ । धाव॑सि । वृ॒षाक॑पेः । अति॑ । व्यथि॑ः ॥ नो इति॑ । अह॑ । प्र । वि॒न्द॒सि॒ । अ॒न्यत्र॑ । सोम॑ऽपीतये । विश्व॑स्मात् । इन्द्र॑ः । उत्ऽत॑रः ॥१२६.२॥


स्वर रहित मन्त्र

परा हीन्द्र धावसि वृषाकपेरति व्यथिः। नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥


स्वर रहित पद पाठ

परा । हि। इन्द्र । धावसि । वृषाकपेः । अति । व्यथिः ॥ नो इति । अह । प्र । विन्दसि । अन्यत्र । सोमऽपीतये । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥१२६.२॥