ऋषिः - वृषाकपिरिन्द्राणी च

देवता - इन्द्रः

छन्दः - पङ्क्तिः

स्वरः - सूक्त-१२६

PreviousNext
स्वर सहित मन्त्र

न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒ कपृ॑त्। सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

स्वर सहित पद पाठ

न । सः । ई॒शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या॑ । कपृ॑त् ॥ सः । इत् । ई॒शे॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसेदुष॑ः । वि॒ऽजृम्भ॑ते । विश्व॑स्मात् । इन्द्र॑ः । उत्ऽत॑र ॥१२६.१६॥


स्वर रहित मन्त्र

न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्। सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥


स्वर रहित पद पाठ

न । सः । ईशे । यस्य । रम्बते । अन्तरा । सक्थ्या । कपृत् ॥ सः । इत् । ईशे । यस्य । रोमशम् । निऽसेदुषः । विऽजृम्भते । विश्वस्मात् । इन्द्रः । उत्ऽतर ॥१२६.१६॥