ऋषिः - वामदेवः

देवता - इन्द्रः

छन्दः - गायत्री

स्वरः - सूक्त-१२४

PreviousNext
स्वर सहित मन्त्र

कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑। कया॒ शचि॑ष्ठया वृ॒ता ॥

स्वर सहित पद पाठ

कया॑ । न॒ः । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवृ॑धः । सखा॑ ॥ कया॑ । शचि॑ष्ठया । वृ॒ता ॥१२४.१॥


स्वर रहित मन्त्र

कया नश्चित्र आ भुवदूती सदावृधः सखा। कया शचिष्ठया वृता ॥


स्वर रहित पद पाठ

कया । नः । चित्रः । आ । भुवत् । ऊती । सदाऽवृधः । सखा ॥ कया । शचिष्ठया । वृता ॥१२४.१॥