atharvaveda/20/121/2

न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते। अ॑श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥

न । त्वाऽवा॑न् । अ॒न्य: । दि॒व्य: । न । पार्थि॑व: । न । जा॒त: । न । ज॒नि॒ष्य॒ते॒ ॥ अ॒श्व॒ऽयन्त॑: । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिन॑: । ग॒व्यन्त॑: । त्वा॒ । ह॒वा॒म॒हे॒ ॥१२१.२॥

ऋषिः - देवातिथिः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-१२१

स्वर सहित मन्त्र

न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते। अ॑श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥

स्वर सहित पद पाठ

न । त्वाऽवा॑न् । अ॒न्य: । दि॒व्य: । न । पार्थि॑व: । न । जा॒त: । न । ज॒नि॒ष्य॒ते॒ ॥ अ॒श्व॒ऽयन्त॑: । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिन॑: । ग॒व्यन्त॑: । त्वा॒ । ह॒वा॒म॒हे॒ ॥१२१.२॥


स्वर रहित मन्त्र

न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते। अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥


स्वर रहित पद पाठ

न । त्वाऽवान् । अन्य: । दिव्य: । न । पार्थिव: । न । जात: । न । जनिष्यते ॥ अश्वऽयन्त: । मघऽवन् । इन्द्र । वाजिन: । गव्यन्त: । त्वा । हवामहे ॥१२१.२॥