ऋषिः - वसिष्ठः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-१२

PreviousNext
स्वर सहित मन्त्र

ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्यर्चन्त्य॒र्कैः। स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

स्वर सहित पद पाठ

ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ॥ सः । न॒ः । स्तु॒तः । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । यू॒यम् ॥ पा॒त॒ । स्व॒स्तिऽभि॑ः । सदा॑ । न॒ः ॥१२.६॥


स्वर रहित मन्त्र

एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः। स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥


स्वर रहित पद पाठ

एव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठासः । अभि । अर्चन्ति । अर्कैः ॥ सः । नः । स्तुतः । वीरऽवत् । धातु । गोऽमत् । यूयम् ॥ पात । स्वस्तिऽभिः । सदा । नः ॥१२.६॥