ऋषिः - वसिष्ठः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-१२

PreviousNext
स्वर सहित मन्त्र

आप॑श्चित्पिप्यु स्त॒र्यो॒ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र। या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥

स्वर सहित पद पाठ

आप॑ः । चि॒त् । पि॒प्यु॒ः । स्त॒र्य॑ः । न । गाव॑ः । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तार॑ः । ते॒ । इ॒न्द्र॒ ॥ या॒ह‍ि । वा॒युः । न । नि॒ऽयुत॑ः । न॒ः । अच्छ॑ । त्वम् । हि । धी॒भिः । दय॑से । वि । वाजा॑न् ॥१२.४॥


स्वर रहित मन्त्र

आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र। याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥


स्वर रहित पद पाठ

आपः । चित् । पिप्युः । स्तर्यः । न । गावः । नक्षन् । ऋतम् । जरितारः । ते । इन्द्र ॥ याह‍ि । वायुः । न । निऽयुतः । नः । अच्छ । त्वम् । हि । धीभिः । दयसे । वि । वाजान् ॥१२.४॥