ऋषिः - श्रुष्टिगुः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-११९

PreviousNext
स्वर सहित मन्त्र

तु॑र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः। अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥

स्वर सहित पद पाठ

तु॒र॒ण्यव॑ः । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑सः । अ॒र्कम् । आ॒नृ॒चु॒ः ॥ अ॒स्मे इति॑ । र॒यिः । प॒प्र॒थे॒ । वृष्ण्य॑म् । शव॑ः । अ॒स्मे इति॑ । सु॒वा॒नास॑ः । इन्द॑वः ॥११९.२॥


स्वर रहित मन्त्र

तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः। अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥


स्वर रहित पद पाठ

तुरण्यवः । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रासः । अर्कम् । आनृचुः ॥ अस्मे इति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मे इति । सुवानासः । इन्दवः ॥११९.२॥