atharvaveda/20/117/2

यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑। स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥

य: । ते॒ । मद॑: । युज्य॑: । चारु॑: । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ॥ य: । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥११७.२॥

ऋषिः - वसिष्ठः

देवता - इन्द्रः

छन्दः - विराड्गायत्री

स्वरः - सूक्त-११७

स्वर सहित मन्त्र

यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑। स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥

स्वर सहित पद पाठ

य: । ते॒ । मद॑: । युज्य॑: । चारु॑: । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ॥ य: । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥११७.२॥


स्वर रहित मन्त्र

यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि। स त्वामिन्द्र प्रभूवसो ममत्तु ॥


स्वर रहित पद पाठ

य: । ते । मद: । युज्य: । चारु: । अस्ति । येन । वृत्राणि । हरिऽअश्व । हंसि ॥ य: । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुऽवसो । ममत्तु ॥११७.२॥