ऋषिः - विश्वामित्रः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-११

PreviousNext
स्वर सहित मन्त्र

स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्वर॒पश्च॑ दे॒वीः। स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥

स्वर सहित पद पाठ

स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒ह॒ःऽदाम् । स॒स॒ऽवांस॑म् । स्व॑ः। अ॒पः । च॒ । दे॒वीः ॥ स॒सान॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णासः ॥११.८॥


स्वर रहित मन्त्र

सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः। ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥


स्वर रहित पद पाठ

सत्राऽसहम् । वरेण्यम् । सहःऽदाम् । ससऽवांसम् । स्वः। अपः । च । देवीः ॥ ससान । यः । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धीऽरणासः ॥११.८॥