ऋषिः - विश्वामित्रः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-११

PreviousNext
स्वर सहित मन्त्र

यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः। वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥

स्वर सहित पद पाठ

यु॒धा । इन्द्र॑ः । म॒हा । वरि॑वः । च॒का॒र॒ । दे॒वेभ्य॑ः । सत्ऽप॑तिः । च॒र्ष॒णि॒ऽप्राः ॥ वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्रा॑ः । उ॒क्थेभि॑ः । क॒वय॑ः । गृ॒ण॒न्ति॒ ॥११.७॥


स्वर रहित मन्त्र

युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः। विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥


स्वर रहित पद पाठ

युधा । इन्द्रः । महा । वरिवः । चकार । देवेभ्यः । सत्ऽपतिः । चर्षणिऽप्राः ॥ विवस्वतः । सदने । अस्य । तानि । विप्राः । उक्थेभिः । कवयः । गृणन्ति ॥११.७॥