ऋषिः - विश्वामित्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - सूक्त-११
इन्द्र॑ः । स्व॒ःऽसा । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभि॑ः । पृत॑नाः । अ॒भि॒ष्टिः ॥ प्र । अ॒रो॒च॒यत् । मन॑वे । के॒तुम् । अह्ना॑म् । अवि॑न्दत् । ज्योति॑ः । बृ॒ह॒ते । रणा॑य ॥११.४॥
इन्द्रः । स्वःऽसा । जनयन् । अहानि । जिगाय । उशिक्ऽभिः । पृतनाः । अभिष्टिः ॥ प्र । अरोचयत् । मनवे । केतुम् । अह्नाम् । अविन्दत् । ज्योतिः । बृहते । रणाय ॥११.४॥