ऋषिः - गोतमः

देवता - इन्द्रः

छन्दः - पथ्यापङ्क्तिः

स्वरः - सूक्त-१०९

PreviousNext
स्वर सहित मन्त्र

ता अ॑स्य पृशना॒युवः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः। प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

स्वर सहित पद पाठ

ताः । अ॒स्‍य॒ । पृ॒श॒न॒ऽयुव॑ः । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः ॥ प्रि॒याः । इन्द्र॑स्य । धे॒नव॑ः । वज्र॑म् । हि॒न्व॒न्ति॒ । साय॑कम् ॥१०९.२॥


स्वर रहित मन्त्र

ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः। प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥


स्वर रहित पद पाठ

ताः । अस्‍य । पृशनऽयुवः । सोमम् । श्रीणन्ति । पृश्नयः ॥ प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् ॥१०९.२॥