atharvaveda/20/107/8

त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑। चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥

त्वया॑ । व॒यम् । शा॒श॒द्म॒हे॒ । रणे॑षु । प्र॒ऽपश्य॑न्त: । यु॒धेन्या॑नि । भूरि॑ ॥ चो॒दया॑मि । ते॒ । आयु॑धा । वच॑:ऽभि: । सम् । ते॒ । शि॒शा॒म‍ि॒ । ब्रह्म॑णा । वयां॑सि ॥१०७.८॥

ऋषिः - बृहद्दिवोऽथर्वा

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-१०७

स्वर सहित मन्त्र

त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑। चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥

स्वर सहित पद पाठ

त्वया॑ । व॒यम् । शा॒श॒द्म॒हे॒ । रणे॑षु । प्र॒ऽपश्य॑न्त: । यु॒धेन्या॑नि । भूरि॑ ॥ चो॒दया॑मि । ते॒ । आयु॑धा । वच॑:ऽभि: । सम् । ते॒ । शि॒शा॒म‍ि॒ । ब्रह्म॑णा । वयां॑सि ॥१०७.८॥


स्वर रहित मन्त्र

त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि। चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥


स्वर रहित पद पाठ

त्वया । वयम् । शाशद्महे । रणेषु । प्रऽपश्यन्त: । युधेन्यानि । भूरि ॥ चोदयामि । ते । आयुधा । वच:ऽभि: । सम् । ते । शिशाम‍ि । ब्रह्मणा । वयांसि ॥१०७.८॥