ऋषिः - मेध्यातिथिः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-१०४

PreviousNext
स्वर सहित मन्त्र

इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑। पा॑व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥

स्वर सहित पद पाठ

इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । गिर॑ः । व॒र्ध॒न्तु॒ । या । मम॑ । पा॒व॒कऽव॑र्णाः । शुच॑यः । वि॒प॒ःऽचित॑ः । अ॒भि। स्तोमै॑ः । अ॒नू॒ष॒त॒ ॥१०४.१॥


स्वर रहित मन्त्र

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम। पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥


स्वर रहित पद पाठ

इमाः । ऊं इति । त्वा । पुरुवसो इति पुरुऽवसो । गिरः । वर्धन्तु । या । मम । पावकऽवर्णाः । शुचयः । विपःऽचितः । अभि। स्तोमैः । अनूषत ॥१०४.१॥