ऋषिः - सुदीतिपुरुमीढौ

देवता - अग्निः

छन्दः - बृहती

स्वरः - सूक्त-१०३

PreviousNext
स्वर सहित मन्त्र

अ॒ग्निमी॑डि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम्। अ॒ग्निं रा॒ये पु॑रुमीढ श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥

स्वर सहित पद पाठ

अ॒ग्निम् । ई॒लि॒ष्व॒ । अव॑से । गाथा॑भिः । शी॒रऽशो॑चिषम् ॥ अ॒ग्निम् । रा॒ये । पु॒रु॒ऽमी॒ल्ह॒ । श्रु॒तम् । नर॑ः । अ॒ग्निम् । सु॒ऽदी॒तये॑ । छ॒र्दिः ॥१०३.१॥


स्वर रहित मन्त्र

अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम्। अग्निं राये पुरुमीढ श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥


स्वर रहित पद पाठ

अग्निम् । ईलिष्व । अवसे । गाथाभिः । शीरऽशोचिषम् ॥ अग्निम् । राये । पुरुऽमील्ह । श्रुतम् । नरः । अग्निम् । सुऽदीतये । छर्दिः ॥१०३.१॥