ऋषिः - मेध्यातिथिः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-१०

PreviousNext
स्वर सहित मन्त्र

उदु॒ त्ये मधु॑मत्तमा॒ गिर॒ स्तोमा॑स ईरते। स॑त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥

स्वर सहित पद पाठ

उत् । ऊं॒ इति॑ । त्ये । मधु॑मत्ऽतमाः । गिर॑ः । स्तोमा॑सः । ई॒र॒ते॒ ॥ स॒त्रा॒जित॑ः । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्त॑ः । रथा॑ःऽइव ॥१०.१॥


स्वर रहित मन्त्र

उदु त्ये मधुमत्तमा गिर स्तोमास ईरते। सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥


स्वर रहित पद पाठ

उत् । ऊं इति । त्ये । मधुमत्ऽतमाः । गिरः । स्तोमासः । ईरते ॥ सत्राजितः । धनऽसाः । अक्षितऽऊतयः । वाजऽयन्तः । रथाःऽइव ॥१०.१॥