ऋषिः - भृग्वङ्गिराः

देवता - वनस्पतिः, यक्ष्मनाशनम्

छन्दः - अनुष्टुप्

स्वरः - दीर्घायु प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

यश्च॒कार॒ स निष्क॑र॒त्स ए॒व सुभि॑षक्तमः। स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द्भि॒षजा॒ शुचिः॑ ॥

स्वर सहित पद पाठ

यः । च॒कार॑ । सः । निः । क॒र॒त् । सः । ए॒व । सुभि॑षक्ऽतमः । सः । ए॒व । तुभ्य॑म् । भे॒ष॒जानि॑ । कृ॒णव॑त् । भि॒षजा॑ । शुचि॑ः ॥९.५॥


स्वर रहित मन्त्र

यश्चकार स निष्करत्स एव सुभिषक्तमः। स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥


स्वर रहित पद पाठ

यः । चकार । सः । निः । करत् । सः । एव । सुभिषक्ऽतमः । सः । एव । तुभ्यम् । भेषजानि । कृणवत् । भिषजा । शुचिः ॥९.५॥