ऋषिः - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - विराडनुष्टुप्
स्वरः - क्षेत्रियरोगनाशन
नम॑ः । ते॒ । लाङ्ग॑लेभ्यः । नम॑ः । ई॒षा॒ऽयु॒गेभ्य॑ः । वी॒रुत् । क्षे॒त्रि॒य॒ऽनाश॑नी । अप॑ । क्षे॒त्रि॒यम् । उ॒च्छ॒तु॒ ॥८.४॥
नमः । ते । लाङ्गलेभ्यः । नमः । ईषाऽयुगेभ्यः । वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥८.४॥