atharvaveda/2/6/3

त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः। स॑पत्न॒हाग्ने॑ अभिमाति॒जिद्भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन् ॥

त्वाम् । अ॒ग्ने॒ । वृ॒ण॒ते॒ । ब्रा॒ह्म॒णा: । इ॒मे । शि॒व: । अ॒ग्ने॒ । स॒म्ऽवर॑णे । भ॒व॒ । न॒: । स॒प॒त्न॒ऽहा । अ॒ग्ने॒ । अ॒भि॒मा॒ति॒ऽजित् । भ॒व॒ । स्वे । गये॑ । जा॒गृ॒हि॒ । अप्र॑ऽयुच्छन् ॥६.३॥

ऋषिः - शौनकः

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - सपत्नहाग्नि

स्वर सहित मन्त्र

त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः। स॑पत्न॒हाग्ने॑ अभिमाति॒जिद्भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन् ॥

स्वर सहित पद पाठ

त्वाम् । अ॒ग्ने॒ । वृ॒ण॒ते॒ । ब्रा॒ह्म॒णा: । इ॒मे । शि॒व: । अ॒ग्ने॒ । स॒म्ऽवर॑णे । भ॒व॒ । न॒: । स॒प॒त्न॒ऽहा । अ॒ग्ने॒ । अ॒भि॒मा॒ति॒ऽजित् । भ॒व॒ । स्वे । गये॑ । जा॒गृ॒हि॒ । अप्र॑ऽयुच्छन् ॥६.३॥


स्वर रहित मन्त्र

त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः। सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुछन् ॥


स्वर रहित पद पाठ

त्वाम् । अग्ने । वृणते । ब्राह्मणा: । इमे । शिव: । अग्ने । सम्ऽवरणे । भव । न: । सपत्नऽहा । अग्ने । अभिमातिऽजित् । भव । स्वे । गये । जागृहि । अप्रऽयुच्छन् ॥६.३॥