ऋषिः - शौनकः

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - सपत्नहाग्नि

PreviousNext
स्वर सहित मन्त्र

समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या। सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ॥

स्वर सहित पद पाठ

समा॑ः । त्वा॒ । अ॒ग्ने॒ । ऋ॒तव॑ः । व॒र्ध॒य॒न्तु॒ । स॒म्ऽव॒त्स॒राः । ऋष॑यः । यानि॑ । स॒त्या । सम् । दि॒व्येन॑ । दी॒दि॒हि॒ । रो॒च॒नेन॑ । विश्वा॑ः । आ । भा॒हि॒ । प्र॒ऽदिश॑ः । चत॑स्रः ॥६.१॥


स्वर रहित मन्त्र

समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या। सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः ॥


स्वर रहित पद पाठ

समाः । त्वा । अग्ने । ऋतवः । वर्धयन्तु । सम्ऽवत्सराः । ऋषयः । यानि । सत्या । सम् । दिव्येन । दीदिहि । रोचनेन । विश्वाः । आ । भाहि । प्रऽदिशः । चतस्रः ॥६.१॥