ऋषिः - भृगुराथर्वणः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - इन्द्रशौर्य सूक्त

PreviousNext
स्वर सहित मन्त्र

अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष। वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥

स्वर सहित पद पाठ

अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य᳡म् । त॒त॒क्ष॒ । वा॒श्राःऽइ॑व । धे॒नव॑ः । स्यन्द॑मानाः । अञ्ज॑ः । स॒मु॒द्रम् । अव॑ । ज॒ग्मु॒ः । आप॑ः ॥५.६॥


स्वर रहित मन्त्र

अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष। वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥


स्वर रहित पद पाठ

अहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्य᳡म् । ततक्ष । वाश्राःऽइव । धेनवः । स्यन्दमानाः । अञ्जः । समुद्रम् । अव । जग्मुः । आपः ॥५.६॥