ऋषिः - भृगुराथर्वणः

देवता - इन्द्रः

छन्दः - विराट्पथ्याबृहती

स्वरः - इन्द्रशौर्य सूक्त

PreviousNext
स्वर सहित मन्त्र

इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न। बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न्मदे॒ सोम॑स्य ॥

स्वर सहित पद पाठ

इन्द्र॑ः । तु॒रा॒षाट् । मि॒त्रः । वृ॒त्रम् । यः । ज॒घान॑ । य॒तीः । न । बि॒भेद॑ । व॒लम् । भृगु॑ः । न । स॒स॒हे॒ । शत्रू॑न् । मदे॑ । सोम॑स्य ॥५.३॥


स्वर रहित मन्त्र

इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न। बिभेद वलं भृगुर्न ससहे शत्रून्मदे सोमस्य ॥


स्वर रहित पद पाठ

इन्द्रः । तुराषाट् । मित्रः । वृत्रम् । यः । जघान । यतीः । न । बिभेद । वलम् । भृगुः । न । ससहे । शत्रून् । मदे । सोमस्य ॥५.३॥