ऋषिः - अथर्वा

देवता - चन्द्रमा अथवा जङ्गिडः

छन्दः - अनुष्टुप्

स्वरः - दीर्घायु प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम्। अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः ॥

स्वर सहित पद पाठ

श॒णः । च॒ । मा॒ । ज॒ङ्गि॒डः । च॒ । विस्क॑न्धात् । अ॒भि । र॒क्ष॒ता॒म् । अर॑ण्यात् । अ॒न्यः। आऽभृ॑तः । कृ॒ष्याः । अ॒न्यः । रसे॑भ्यः ॥४.५॥


स्वर रहित मन्त्र

शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम्। अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥


स्वर रहित पद पाठ

शणः । च । मा । जङ्गिडः । च । विस्कन्धात् । अभि । रक्षताम् । अरण्यात् । अन्यः। आऽभृतः । कृष्याः । अन्यः । रसेभ्यः ॥४.५॥