ऋषिः - पतिवेदनः

देवता - हिरण्यम्, भगः

छन्दः - अनुष्टुप्

स्वरः - पतिवेदन सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒दं हिर॑ण्यं॒ गुल्गु॑ल्व॒यमौ॒क्षो अ॑थो॒ भगः॑। ए॒ते पति॑भ्य॒स्त्वाम॑दुः प्रतिका॒माय॒ वेत्त॑वे ॥

स्वर सहित पद पाठ

इ॒दम् । हिर॑ण्यम् । गुल्गु॑लु । अ॒यम् । औ॒क्षः । अथो॒ इति॑ । भग॑ः । ए॒ते । पति॑भ्यः । त्वाम् । अ॒दु॒ः । प्र॒ति॒ऽका॒माय॑ । वेत्त॑वे ॥३६.७॥


स्वर रहित मन्त्र

इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः। एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥


स्वर रहित पद पाठ

इदम् । हिरण्यम् । गुल्गुलु । अयम् । औक्षः । अथो इति । भगः । एते । पतिभ्यः । त्वाम् । अदुः । प्रतिऽकामाय । वेत्तवे ॥३६.७॥