ऋषिः - अङ्गिराः

देवता - विश्वकर्मा

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - विश्वकर्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

य॒ज्ञस्य॒ चक्षुः॒ प्रभृ॑ति॒र्मुखं॑ च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि। इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ॥

स्वर सहित पद पाठ

य॒ज्ञस्य॑ । चक्षुः । प्रऽभृ॑तिः । मुख॑म् । च॒ । वा॒चा । श्रोत्रे॑ण । मन॑सा । जु॒हो॒मि॒ । इ॒मम् । य॒ज्ञम् । विऽत॑तम् । वि॒श्वऽक॑र्मणा । आ । दे॒वाः । य॒न्तु॒ । सु॒ऽम॒न॒स्यमा॑नाः ॥३५.५॥


स्वर रहित मन्त्र

यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि। इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥


स्वर रहित पद पाठ

यज्ञस्य । चक्षुः । प्रऽभृतिः । मुखम् । च । वाचा । श्रोत्रेण । मनसा । जुहोमि । इमम् । यज्ञम् । विऽततम् । विश्वऽकर्मणा । आ । देवाः । यन्तु । सुऽमनस्यमानाः ॥३५.५॥