ऋषिः - अङ्गिराः

देवता - विश्वकर्मा

छन्दः - त्रिष्टुप्

स्वरः - विश्वकर्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑दा॒न्यान्त्सो॑म॒पान्मन्य॑मानो य॒ज्ञस्य॑ वि॒द्वान्त्स॑म॒ये न धीरः॑। यदेन॑श्चकृ॒वान्ब॒द्ध ए॒ष तं वि॑श्वकर्म॒न्प्र मु॑ञ्चा स्व॒स्तये॑ ॥

स्वर सहित पद पाठ

अ॒दा॒न्यान् । सो॒म॒ऽपान् । मन्य॑मानः । य॒ज्ञस्य॑ । वि॒द्वान् । स॒म्ऽअ॒ये । न । धीर॑ः । यत् । एन॑ः । च॒कृ॒वान् । ब॒ध्दः । ए॒षः । तम् । वि॒श्व॒क॒र्म॒न् । प्र । मु॒ञ्च । स्वस्तये॑ ॥३५.३॥


स्वर रहित मन्त्र

अदान्यान्त्सोमपान्मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः। यदेनश्चकृवान्बद्ध एष तं विश्वकर्मन्प्र मुञ्चा स्वस्तये ॥


स्वर रहित पद पाठ

अदान्यान् । सोमऽपान् । मन्यमानः । यज्ञस्य । विद्वान् । सम्ऽअये । न । धीरः । यत् । एनः । चकृवान् । बध्दः । एषः । तम् । विश्वकर्मन् । प्र । मुञ्च । स्वस्तये ॥३५.३॥