ऋषिः - ब्रह्मा

देवता - यक्षविबर्हणम्(पृथक्करण्म्) चन्द्रमाः, आयुष्यम्

छन्दः - उष्णिग्गर्भा निचृदनुष्टुप्

स्वरः - यक्षविबर्हण

PreviousNext
स्वर सहित मन्त्र

अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः। यक्ष्म॑म्पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥

स्वर सहित पद पाठ

अ॒स्थिऽभ्य॑ः । ते॒ । म॒ज्जऽभ्य॑ः । स्नाव॑ऽभ्यः । ध॒मनि॑ऽभ्यः । यक्ष्म॑म् । पा॒णिऽभ्या॑म् । अ॒ङ्गुलि॑ऽभ्यः । न॒खेभ्य॑ः । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.६॥


स्वर रहित मन्त्र

अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः। यक्ष्मम्पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥


स्वर रहित पद पाठ

अस्थिऽभ्यः । ते । मज्जऽभ्यः । स्नावऽभ्यः । धमनिऽभ्यः । यक्ष्मम् । पाणिऽभ्याम् । अङ्गुलिऽभ्यः । नखेभ्यः । वि । वृहामि । ते ॥३३.६॥