ऋषिः - प्रजापतिः
देवता - मनः
छन्दः - अनुष्टुप्
स्वरः - कामिनीमनोऽभिमुखीकरण सूक्त
यथा॑ । इ॒दम् । भूम्या॑ः । अधि॑ । तृण॑म् । वात॑ः । म॒था॒यति॑ । ए॒व । म॒थ्ना॒मि॒ । ते॒ । मन॑ः । यथा॑ । माम् । का॒मिनी॑ । अस॑ः । यथा॑ । मत् । न । अप॑ऽगाः । अस॑ः ॥३०.१॥
यथा । इदम् । भूम्याः । अधि । तृणम् । वातः । मथायति । एव । मथ्नामि । ते । मनः । यथा । माम् । कामिनी । असः । यथा । मत् । न । अपऽगाः । असः ॥३०.१॥