ऋषिः - अङ्गिराः

देवता - भैषज्यम्, आयुः, धन्वन्तरिः

छन्दः - त्रिपात्स्वराडुपरिष्टान्महाबृहती

स्वरः - आस्रावभेषज सूक्त

PreviousNext
स्वर सहित मन्त्र

शं नो॑ भवन्त्वा॒प ओष॑धयः शि॒वाः। इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद्विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म् ॥

स्वर सहित पद पाठ

शम् । न॒ः । भ॒व॒न्तु॒ । आ॒पः । ओष॑धयः । शि॒वाः । इन्द्र॑स्य । वज्र॑ः । अप॑ । ह॒न्तु॒ । र॒क्षस॑ः । आ॒रात् । विऽसृ॑ष्टाः । इष॑वः । प॒त॒न्तु॒ । र॒क्षसा॑म् ॥३.६॥


स्वर रहित मन्त्र

शं नो भवन्त्वाप ओषधयः शिवाः। इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥


स्वर रहित पद पाठ

शम् । नः । भवन्तु । आपः । ओषधयः । शिवाः । इन्द्रस्य । वज्रः । अप । हन्तु । रक्षसः । आरात् । विऽसृष्टाः । इषवः । पतन्तु । रक्षसाम् ॥३.६॥