ऋषिः - अथर्वा

देवता - द्यावापृथिवी, विश्वे देवाः, मरुद्गणः, आपो देवाः

छन्दः - त्रिष्टुप्

स्वरः - दीर्घायुष्य सूक्त

PreviousNext
स्वर सहित मन्त्र

ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्। ऊर्ज॑म॒स्मै द्याव॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ॥

स्वर सहित पद पाठ

ऊर्ज॑म् । अ॒स्मै॒ । ऊ॒र्ज॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । पय॑ः । अ॒स्मै॒ । प॒य॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । ऊर्ज॑म् । अ॒स्मै । द्यावा॑पृथि॒वी इति॑ । अ॒धा॒ता॒म् । विश्वे॑ । दे॒वाः । म॒रुत॑ः । ऊर्ज॑म् । आप॑ः ॥२९.५॥


स्वर रहित मन्त्र

ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम्। ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥


स्वर रहित पद पाठ

ऊर्जम् । अस्मै । ऊर्जस्वती इति । धत्तम् । पयः । अस्मै । पयस्वती इति । धत्तम् । ऊर्जम् । अस्मै । द्यावापृथिवी इति । अधाताम् । विश्वे । देवाः । मरुतः । ऊर्जम् । आपः ॥२९.५॥